श्रीसूक्त पाठ | Shree Sukta Path
ॐ हिरण्यवर्णां हरिणीं, सुवर्णरजतस्त्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं, जातवेदो म आ वह ॥१॥
तां म आ वह जातवेदो, लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं, गामश्वं पुरूषानहम् ॥२॥
अश्वपूर्वां रथमध्यां, हस्तिनादप्रमोदिनीम् ।
श्रियं देवीमुप ह्वये, श्रीर्मा देवी जुषताम् ॥३॥
कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मेस्थितां पद्मवर्णां तामिहोप ह्वये श्रियम् ॥४॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीमीं शरणं प्र पद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥
आदित्यवर्णे तपसोऽधि जातो वनस्पतिस्तव वृक्षोऽक्ष बिल्वः ।
तस्य फलानि तपसा नुदन्तु या अन्तरा याश्च बाह्या अलक्ष्मीः ॥६॥
उपैतु मां दैवसखः, कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्, कीर्तिमृद्धिं ददातु मे ॥७॥
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च, सर्वां निर्णुद मे गृहात् ॥८॥
गन्धद्वारां दुराधर्षां, नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां, तामिहोप ह्वये श्रियम् ॥९॥
मनसः काममाकूतिं, वाचः सत्यमशीमहि ।
पशूनां रूपमन्नस्य, मयि श्रीः श्रयतां यशः ॥१०॥
कर्दमेन प्रजा भूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥११॥
आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥१२॥
आर्द्रां य करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ॥१३॥
आर्द्रां पुष्करिणीं पुष्टिं पिंगलां पद्ममालिनीम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं, जातवेदो म आ वह ॥१४॥
तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् ॥१५॥
य: शुचि: प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।
सूक्तं पंचदशर्चं च श्रीकाम: सततं जपेत् ॥१६॥
पद्मनाने पद्मउरू पद्माक्षी पद्मसंभवे,
तन्मे भजसी पद्माक्षी येन सौख्यम् लभाम्यहम् ॥१७॥
अश्वदाई गोदाई धनदायी महाधने,
धनम् मे लभाताम देवी सर्वकमांश देहिमे॥१८॥
पद्मानने पद्मवि पद्मपत्रे पद्मप्रिये पद्मदलायताक्षी,
विश्वप्रिये विश्व मनोनकुले त्वत्पादपद्म मयीसन्निधत्स्व॥१९॥
पुत्रपौत्रम, धनमधान्यम्, हस्त्यश्वा दिगवेरथम्
प्रजानाम भवसीमाता आयुष्मंतं करो तुमे ॥२०॥
धनम अग्निर धनम वायू धनं सूर्यो धनं वसु:
धनमिंद्रो बृहस्पति र वरुणम धन मस्तुमे॥२१॥
वैनतेय होणं पिब सोमं पिबतु वृत्रहा
सोमम धनस्य सोमिनो मह्यं ददातू सोमिन: ॥२२॥
न क्रोधो नच मात्सर्य न लोभो ना शुभामति:
भवंति कृत पुण्यानाम् भक्तानां श्रीसूक्तम् जपेत ॥२३॥
सरसिजनिलये सरोजहस्ते धवल तरांशुक गंधमाल्यशोभे
भगवती हरी वल्लभे मनोद्ने त्रिभुवन भुती करि प्रसिद मह्यम ॥२४॥
विष्णूपत्नीं क्षमां महादेवीं माधवीं माधव प्रियाम्
लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युत वल्लभाम् ॥२५॥
महालक्ष्मीच विद्महे विष्णू पत्नीच धीमहि
तन्नो लक्ष्मी: प्रचोदयात् ॥२६॥
श्री वर्चस्वमायुष्यमारोग्यमाविधात शोभ मानम् महियते
धान्यं धनम् पशुं बहूपुत्र लाभं शतसंवत्सरम् दिर्घमायु: ॥२७॥
इति श्री सुक्त संपूर्ण